वांछित मन्त्र चुनें

पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒: काव्यै॑र्दं॒सना॑भिः । यत्सु॒रामं॒ व्यपि॑ब॒: शची॑भि॒: सर॑स्वती त्वा मघवन्नभिष्णक् ॥

अंग्रेज़ी लिप्यंतरण

putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṁsanābhiḥ | yat surāmaṁ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak ||

पद पाठ

पु॒त्रम्ऽइ॑व । पि॒तरौ॑ । अ॒श्विना॑ । उ॒भा । इन्द्र॑ । आ॒वथुः॑ । काव्यैः॑ । दं॒सना॑भिः । यत् । सु॒राम॑म् । वि । अपि॑बः । शची॑भिः । सर॑स्वती । त्वा॒ । म॒घ॒ऽव॒न् । अ॒भि॒ष्ण॒क् ॥ १०.१३१.५

ऋग्वेद » मण्डल:10» सूक्त:131» मन्त्र:5 | अष्टक:8» अध्याय:7» वर्ग:19» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पितरौ) मातापिता (पुत्रम्-इव) पुत्र को जैसे तृप्त करते हैं, वैसे (काव्यैः) मधुर वचनों के द्वारा (दंसनाभिः) श्रेष्ठ कर्मों के द्वारा (इन्द्र) हे इन्द्र ! परमात्मन् ! राजन् ! (उभा-अश्विना) दोनों सुशिक्षित स्त्री-पुरुष (अवथुः) प्रसन्न करते हैं (शचीभिः) रक्षाकर्मों से (यत्) जो (सुरामम्) सोमरस है, उसे तू (वि अपिबः) निश्चितरूप से पान कर (मघवन्) हे ऐश्वर्यवन् राजन् ! (सरस्वती) स्तुतिवाणी या विद्यासभा (त्वा) तुझे (अभिष्णक्) सेवन करे-तेरा हित साधे ॥५॥
भावार्थभाषाः - सुशिक्षित स्त्री-पुरुष अपने गृहस्थजीवन में उत्तम स्तुतिवचनों और कर्मों द्वारा परमात्मा को प्रसन्न करें एवं राजा को भी सुशिक्षित स्त्री-पुरुष प्रजाजन अच्छे मधुर वचनों और कर्मों द्वारा प्रसन्न रखें ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पितरौ पुत्रम्-इव) मातापितरौ यथा पुत्रं प्रीणीतः (काव्यैः-दंसनाभिः) विविधमधुरवचनैः कर्मभिश्च “दंसः कर्मनाम” [निघ० २।३] तद्वत् (इन्द्र) हे इन्द्र परमात्मन् ! (उभा-अश्विना-अवथुः) त्वां सुशिक्षितौ स्त्रीपुरुषौ-अवतः ‘पुरुषव्यत्ययेन प्रथमस्थाने मध्यमः’ प्रीणीतः (शचीभिः-यत् सुरामं वि अपिबः) रक्षाकर्मभिः “शची कर्मनाम” [निघ० २।१] यत् सुरमणीयमुपहाररूपं सोमरसं त्वं पिबसि (मघवन् सरस्वती त्वा-अभिष्णक्) राजन् ! स्तुतिवाक्-विद्यासभां वां त्वामुपसेवते, “भिष्णक्-उपसेवायाम्” [कण्ड्वादि०] ॥५॥